Sunday, March 6, 2011

Seeta Kalyanam

सीताराम कल्याणं
यस्मिन्स्तु दिवसे राजा चक्रे गोदानमुत्तमं |
तस्मिन्स्तु दिवसे वीरो युधाजित समुपेयिवान् ||
पुत्रः केकेयराजस्य साक्षात्भरतमातुल: |
दृष्टा पृष्टा च कुशलं राजानमिदमब्रवीत ||
केकेयधिपती राजा स्नेहात् कुशलमब्रवीत |
येषां कुशलकामोस्ति तेषां संप्रत्यनामयं ||
स्वस्तीयं मम राजेन्द्र द्रष्टुकामो महीपतिः |
तदर्थमुपयातोऽहं द्रष्टुकामः स्वसुः सुतम्  |
अथ राजा दशरथः प्रियतिथिमुपस्थितं |
दृष्टा परमसत्कारैः पूजनार्हमपूजयत |
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः |
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् |
ऋषिन्स्तदा पुरस्कृत्य यज्ञ वातमुपागमात |
युक्ते मुहूर्ते विजये सर्वाभरण भूषितैः |
भ्रातुभिः सहितो रामः कृतकौतुक मङ्गलः |
वशिष्टं पुरतः कृत्वा महर्षी नपरानपि |
वशिष्टो भगवानेत्य वैदेहं इदमब्रवीत |
राजा दशरथो राजन कृत कौतुक मङ्गलैः |
पुत्रे नरवरश्रेष्ठो दातारमभि कान्क्षते |
दातृ प्रतिग्रहीतृभ्यां सर्वार्थाः संभवन्ति हि  |
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमं |
इत्युक्तः परमो दारो वशिष्ठेन महात्मना |
प्रत्युवाच महातेजा वाक्यं परम धर्मवित् |
प्रहस्थितः प्रतिहारो मेकस्याज्ञां सम्प्रतीक्ष्यते  |
स्वगृहे कोविचारोस्ति यथा राज्यं इदं तव |
कृत कौतुक सर्वस्वा वेदिमूलमुपागतः |
मम कन्या मुनिश्रेष्ठा दीप्ता बह्नेरिवार्चिषः |
सद्योहं त्वत्प्रतीक्षोस्मि वेद्यामस्यां प्रतिष्ठितः |
अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते |
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा |
प्रवेशयामास सुतान्सर्वानृषिगणानपि |
ततो राजा विदेहानां वशिष्ठं इदमब्रवीत |
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक |
रामस्य लोक रामस्य क्रियां वैवहिकीं प्रभो |
तथेत्युक्त्वा तु जनकं वशिष्ठो भगवान् ऋषिः |
विश्वामित्रम्  पुरस्कृत्य शतानन्दं च धार्मिकं |
प्रपा मध्ये तु विधिवत् वेदिं कृत्वा महातपाः |
अलं चकार तां वेदिं गन्ध पुष्पैः समन्ततः |
सुवर्ण पालिकभिश्च चित्र कुम्भैश्च  साङ्कुरैः |
अन्कुराध्यैः सरावैश्च धूप पात्रैः सधूपकैः |
शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादि पूजितैः |
लाज पूर्नैश्च पात्रीभिरक्षतैरपि संस्कृतैः |
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकं |
अग्निमाधाय तं वेद्यां विधि मन्त्र पुरस्कृतं |
जुहावाग्नौ महातेजा वशिष्ठो मुनिपुङ्गवः |
ततः सीतां समानीय सर्वाभरण भूषितां |
समक्षमग्ने: संस्थाप्य राघवाभि मुखे तदा |
अब्रवीज्जनको राजा कौशल्यानन्दवर्धनं |
इयं सीता मम सुता सह धर्मचरी तव |
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना |
पतिव्रता महाभागा छायेवानुगता सदा |
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा |
साधुसाध्विति देवानां ऋषीणां वदतां तदा |
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् |
येवं दत्वा सुतां सीतां मन्त्रोदक पुरस्कृतं |
अब्रवीज्जनको राजा हर्षेणाभि परिप्लुतः |
लक्ष्मणा गच्छ भद्रंते उर्मिला मुद्यतां मया |
प्रतीच्छ पाणिं गृह्णीष्व माभूत कालस्य पर्ययः |
तमेव मुक्त्वा जनको भरतं चाभ्य भाषत |
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन |
शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः |
श्रुतकीर्तेः महाबाहो पाणिं गृह्णीष्व पाणिना |
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः |
पत्नीभिः सन्तु काकुत्स्था माभूत् कालस्य पर्ययः |
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन् |
चत्वारस्ते चतस्रूणां वशिष्ठस्य मते स्थिताः |
अग्निं प्रदक्षि
णम् कृत्वा वेदिं राजानमेव च |
ऋषीन्श्चापि महात्मनः सह भार्या रघूद्वहा: |
यथोक्तेन ततः चक्रूर्विवाहं विधिपूर्वकं |
पुष्प वृष्टिः महत्या आसीदन्तरिक्षात् सुभास्वरा |
दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः |
ननृतुः चाप्सरः संघा गन्धर्वाश्च जगुः कलं |
विवाहे रघुमुख्यानां तदद्भुतं अदृश्यत |
ईदृशे वर्तमाने तु तूर्योद्धुष्टनिनादिते |
त्रिरग्निं ते परिक्रम्य ऊहु भार्या महोजसः |
अथोप कार्यं जग्मुस्ते सभार्या रघुनन्दनाः |
राजप्यनु ययौ पश्यन् सर्षि संघः सबान्धवः |
         

No comments:

Post a Comment